श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra |

 

श्री सरस्वती स्तोत्र

श्री सरस्वती स्तोत्र



विनियोगः 

ॐ अस्य श्रीसरस्वतीस्तोत्रमंत्रस्य ब्रह्माऋषिः गायत्री छन्दः श्रीसरस्वती देवता धर्मार्थकाममोक्षार्थे जपे विनियोगः | 


आरूढ़ा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं 

वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या | 

सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः 

क्रीडन्ति दिव्यरूपा करकमलधरा भारती सुप्रसन्ना || १ || 


श्वेतपद्मासना देवी श्वेतगन्धानुलेपना | 

अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा | 

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः || २ || 


शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं 

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् | 

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां 

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् || ३ || 


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता 

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना | 

या ब्रह्माच्युतशङ्करप्रभूतिभिर्देवैः सदा वन्दिता 

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा || ४ || 


ह्रीं ह्रीं ह्यद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे 

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्यांघ्रिपद्मे | 

पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयितत्रि 

प्रोत्फुल्लज्ञानकुटे हरिनिजदयिते देवि संसारसारे || ५ || 


ऐं ऐं ऐं दृष्टमन्त्रे कमलभवमुखाम्भोजभूतस्वरूपे 

रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे | 

न स्थूले नैव सुक्ष्मेऽप्यविदितविभवे नापि विज्ञानतत्वे 

विश्वे विश्वान्तरात्मे सुरवर निमिते निष्कले नित्यशुद्धे || ६ || 


ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते 

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशास्ताम् | 

विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे 

मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे || ७ || 


धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये 

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे | 

पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे 

मातर्मात्रार्धतत्वे मतिमति मतिदे माधवप्रीतिमोदे || ८ || 


ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकग्रव्यहस्ते 

सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये | 

मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंसमीडे 

गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये || ९ || 


स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा 

माँ में बुद्धिर्विरुद्धा भवतु न च मनो देवि में यातु पापम् | 

माँ में दुःखं कदाचित्क्वचिदपि विषयेऽप्यस्तु में नाकुलत्वं 

शास्त्रे वादे कवित्वं प्रसरतु मम धीर्मास्तु कुण्ठा कदापि || १० || 


इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो 

वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टकण्ठः | 

सः स्यादिष्टाद्यर्थलाभैः सुतमिव सततं पातितं सा च देवीं 

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं व्रयाति || ११ || 


निर्विघ्नं  तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः 

कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् | 

दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो 

वाग्देव्याः सम्प्रसादात्रिजगति विजयी जायते सत्सभाषु || १२ || 


ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः | 

सारस्वतो जनः पाठात्सकृदिष्टार्थलाभवान् || १३ || 


पक्षद्वये त्रयोदश्यामेकवविंशंति संख्यया | 

अविच्छिन्नः पठेद्धीमान्ध्यात्वा देवीं सरस्वतीम् || १४ || 


सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः | 

वाञ्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः || १५ || 


ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्याः स्तवं शुभम् | 

प्रयत्नेन पठेन्नित्यं सोऽमृतत्वाय कल्पते || १६ || 


|| इति श्रीमदब्रह्मणा विरचितं सरस्वतीस्तोत्रं सम्पूर्णं || 



श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra | श्री सरस्वती स्तोत्र | Shree Sarasvati Stotra | Reviewed by Bijal Purohit on 1:31 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.