बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram |


बुधपञ्च विंशतिनामावली स्तोत्रम्

बुधपञ्च विंशतिनामावली स्तोत्रम्


|| विनियोगः ||

अस्य श्रीबुधपञ्च विंशतिनामस्तोत्र मंत्रस्य मन्त्रस्य प्रजापतिरृषिः

त्रिष्टुप छन्दः बुधो देवताः बुधपीड़ानिवारणार्थे जपे विनियोगः |

बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः |

प्रियङ्गकलिकाश्यामः कञ्जनेत्रो मनोहरः ||

ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः |

विरुद्धकार्यहन्ता सौम्यो बुद्धिविवर्धनः ||

चन्द्रात्मजो विष्णुरूपी ज्ञानी ज्ञो ज्ञानिनायकः |

ग्रहपीड़ाकारो दारपुत्रधान्यपशुप्रदः ||

लोकप्रियः सौम्यमूर्तिर्गुणदो गुणिवत्सलः |

पञ्चविंशति नामानि बुधस्यै तानि यः पठेत् ||

स्मृत्वा बुधं सदा तस्य पीड़ाः सर्वा विनश्यति |

तद्दिने वा पठेद्यस्तु लभते मनोगतम् ||


|| श्री पद्मपुराणे बुधपञ्च विंशतिनामावली स्तोत्रम् सम्पूर्णं ||

बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram | बुधपञ्च विंशतिनामावली स्तोत्रम् | Budh Panch vinshati namavali stotram | Reviewed by Bijal Purohit on 11:58 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.