सूर्योपनिषत | सूर्य अथर्वशीर्ष | Suryopnishad | Surya Atharvashirsham |

 

सूर्योपनिषत 

सूर्य अथर्वशीर्ष

सूर्योपनिषत | सूर्य अथर्वशीर्ष |





सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् |

सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ||


भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः |

स्थिरैरङ्गैस्तुष्टुवा("ङ्गु" यजुर्वेद के अनुसार )

सस्तनूभिर्व्यशेम देवहितं जदायुः ||


स्वस्ति इन्द्रो वृद्धश्रवाः | स्वस्तिनः पूखा ( यजुर्वेद के अनुसार ) विश्ववेदाः |

स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु ||

शांतिः शांतिः शांतिः ||


हरिः अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः |

ब्रह्माऋषिः | गायत्री छन्दः | आदित्यो देवता |

हंसः सोऽहमग्निनारायणयुक्तं बीजम् | ह्यल्लेखा शक्तिः |

वियदादिसर्गयुक्तं कीलकम् | चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः |

षट्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् |

सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं

श्रीसूर्यनारायणं एवं वेद वै ब्राह्मणः |

भूर्भुवः सुवः | तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि |

धियो योनः प्रचोदयात् |

सूर्य आत्मा जगतस्तस्थुषश्चं | सुर्याद्वै खल्विमानि | भूतानि जायन्ते |

सुर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य |

त्वमेव प्रत्यक्षं कर्मकर्ताऽसि | त्वमेव प्रत्यक्षं ब्रह्माऽसि |

त्वमेव प्रत्यक्षं विष्णुऽरसि | त्वमेव प्रत्यक्षं रुद्रोऽसि |

त्वमेव प्रत्यक्षमृगसि | त्वमेव प्रत्यक्षं यजुरऽसि |

त्वमेव प्रत्यक्षं सामासि | त्वमेव प्रत्यक्षऽमथर्वासि |

त्वमेव सर्वं छन्दोऽसि | आदित्याद्वायुर्जायते |

आदित्याद्भूमिर्जायते | आदित्यादापो जायन्ते |

आदित्याज्ज्योतिर्जायते | आदित्याद्व्योम दिशो जायन्ते |

आदित्याद्देवा जायन्ते | आदित्या द्वेदा जायन्ते |

आदित्यो वा एष एतन्मण्डलं तपति | असावादित्यो ब्रह्म |

आदित्योऽन्त:करणमनोबुद्धिचित्ताहँकाराः |

आदित्यो वै व्यानः समानोदानोऽपानः प्राणः |

आदित्यो वै श्रोत्रत्वक्क्रक्क्षूरसनघ्राणाः | आदित्यो वै वाक्पाणिपादपायूपस्थाः |

आदित्यो वै शब्दस्पर्शरुपरसगन्धाः | आदित्यो वै वचनादानागमनविसर्गानन्दाः |

आनंदमयो ज्ञानमयो विज्ञानानमय आदित्यः | नमो मित्राय भानवे मृत्योर्मा पाहि |

भ्राजिष्णवे विश्वहेतवे नमः | सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु |

सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव |

चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतःचक्षुर्धाता दधातु नः |

आदित्याय विद्महे सहस्त्रकिरणाय धीमहि | तन्नः सूर्यः प्रचोदयात् |

सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् |

सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः |

इत्येकाक्षरं ब्रह्म | घृणिरिति द्वे अक्षरे | सूर्य इत्यक्षरद्वयम् |

आदित्य इति त्रीण्यक्षराणि |

एतस्यैव सूर्यस्याष्टाक्षरो मनुः |

यः सदाहरहर्जपति वै ब्राह्मणो भवति वै ब्राह्मणो भवति |

सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते |

अलक्ष्मीर्नश्यति | अभक्ष्यभक्षणात्पूतो भवति |

अगम्यागमनात्पूतो भवति | पतितसम्भाषणात्पूतो भवति |

असत् संभाषणात्पूतो भवति | मध्याह्ने सुराभिमुखः पठेत् |

सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते

सैषां सावित्रीं विद्यां किञ्चिदपि कस्मैचित्प्रशंसयेत् |

एतां महाभागः प्रातः पठति भाग्यवाञ्जायते | पशुन्विन्दति | वेदार्थं लभते |

त्रिकालमेतज्जप्त्वा क्रतुशतफलमाप्नोति |

 यो हस्तादित्ये जपति महामृत्युं तरति एवं वेद ||


|| इत्युपनिषत् ||

भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः |

स्थिरैरङ्गैस्तुष्टुवा("ङ्गु" यजुर्वेद के अनुसार )

सस्तनूभिर्व्यशेम देवहितं जदायुः ||


स्वस्ति इन्द्रो वृद्धश्रवाः |

स्वस्तिनः पूखा ( यजुर्वेद के अनुसार ) विश्ववेदाः |

स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः |

स्वस्ति नो बृहस्पतिर्दधातु ||


|| अस्तु ||

सूर्योपनिषत | सूर्य अथर्वशीर्ष | Suryopnishad | Surya Atharvashirsham | सूर्योपनिषत | सूर्य अथर्वशीर्ष | Suryopnishad | Surya Atharvashirsham | Reviewed by Bijal Purohit on 12:34 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.