श्री कमलात्मिकोपनिषत् | Shri Kamalatmika Upnishad |

 

 श्री कमलात्मिकोपनिषत्

श्री कमलात्मिकोपनिषत्


अथ लोकान् पर्यटन् सनत्कुमारो वैदेहः

पुण्य - चिताल्लोकानतीत्य वैष्णवं धाम

दिव्य - गणोपेतं विद्रुम् - वेदिका - मणि -

 मुक्ता - गणार्चितं प्राय | तत्रापश्यन् महा -

 मायां परार्द्धय्- वस्त्राभरणोत्तरीयां पर्यङ्कस्था

वस्त्राभरणोत्तरीयां पर्यङ्कस्थां पारे चरन्ती मादि -

 देवं भगवन्तं परमेश्वरं दृष्ट्वा  तां गद् गद वाक् -

 प्रफुल्ल - रोमा स्तोतुमुप - चक्रमे ||


वाचं मे दिशतु श्रीर्देवी, मनो मे दिशतु वैष्णवी |

 ओजस्तेजो बलं दाक्ष्यं बुद्धेर्वैभवमस्तु

मे | त्वत् - प्रसादाद् भगवति ! प्रज्ञानं मे ध्रुवं भवेत् |

शन्नो दिशतु श्रीर्देवी महा - माया वैष्णवी

शक्तिराद्या | यामासाद्य स्वयमादि -

 देवो भगवान् परावरज्ञस्त्रिधा सम्भिन्नो लोकांस्त्रीन्

सृजत्यवत्यत्ति | यद् - भ्रू - विक्षेप - बलमापन्नो ह्यब्ज -

 योनिस्तदितरे चामरा मुख्याः सृष्टि - चक्र - प्रणेतारः सम्बभूवुः |


 या वै वरदा स्वोपाया सु - प्रसन्ना सुखयति सहस्त्र -

 पुरुषान् ये लोकाः सन्ततमानमन्ति शिरसा हृदयेन

तामेकां लोक - पूज्यां ते दुर्गतिं यान्ति भूताः ||


अथ महत्या संवृद्धया साम्राज्येन पुत्रैः पौत्रैरन्वितो भूमि -

 पृष्ठे शतं समास्त इज्याभिरिष्ट् वा

देवान् पितृन् मनुष्यानथ भूरी - दक्षिणाभिस्त्वत् -

 प्रसादान्महान्तो गच्छन्ति वैष्णवं लोकमपुनर्भवाय

 ये राजर्षयो ब्रह्मर्षयस्तेऽपि चासत् - कृत् त्वां

प्रागसन्त एव सुखमामनन्ति | नान्यः पन्थाः विद्यतेऽयनाय किं पुनरिहादि

 - देवो भगवान्नारायणस्त्वा मधीं - देवाखिलं करोति |

किं वर्णये त्वां, सहस्त्र - कृत्वा नमस्ते ||


इमा ऋचः पठन्ति प्रातरुत्थाय भूरी दान

तेषां किञ्जि दिह यावशिष्टय्यदैश्वर्य दुर्लभं प्राणिनां हि ||


|| श्रीकमलात्मिकोपनिषत् ||

श्री कमलात्मिकोपनिषत् | Shri Kamalatmika Upnishad |  श्री कमलात्मिकोपनिषत् | Shri Kamalatmika Upnishad | Reviewed by Bijal Purohit on 11:36 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.