श्री विष्णु सहस्त्र नाम | Vishnu Sahstranaam Path Full |

 

श्री विष्णु सहस्त्र नाम

श्री विष्णु सहस्त्र नाम


विष्णुसहस्त्र शापविमोचन विधी

क्युकी बिना शाप विमोचन किये विष्णुसहस्त्र पाठ करने से उसका कोई परिणाम प्राप्त नहीं होता है |

क्युकी यह पाठ महादेव द्वारा शापित है इसीलिए सबसे पहले इसे शाप में से मुक्त करना बहुत ही जरुरी है |

इस स्तोत्र के महदेवऋषि है ,अनुष्टुप छंद है,रूद्र अनुग्रह शक्ति है |


शापविमोचन क्यों जरुरी है ?

विष्णोः सहस्त्रनाम्नां यो कृत्वा शापमोचनम |

पठेच्छुभानि सर्वाणि स्तुस्तस्य निष्फलानि तुम ||

अर्थात विष्णुसहस्त्र पाठ शापविमोचन के बिना अगर किया जाए तो वो निष्फल हो जाता है |

रुद्रशाप विमोचन विधीसर्वप्रथम विनियोग करे |

विनियोग : अस्य श्री विष्णोर्दिव्यसहस्त्रनाम्नां रुद्रशापविमोचन मंत्रस्य महादेवऋषिःअनुष्टुप छन्दः | श्री रुद्रानुग्रहशक्तिर्देवताः | सुरेशः शरणंशर्मेति बीजं | अनन्तो हुत भुग भोक्तेति शक्तिः | सुरेश्वरायेति कीलकं | रुद्रशाप विमोचने विनियोगः |


उसके पश्चात् न्यास का विधान है सर्वप्रथम करन्यास कर बाद में हृदयादि न्यास का विधान करना है |

करन्यास क्लीं ह्रां अंगुष्ठाभ्यां नमः | ह्रीं तर्जनीभ्यां नमः | ह्रुं मध्यमाभ्यां नमः | ह्रैं अनामिकाभ्यां नमः | ह्रौं कनिष्ठिकाभ्यां नमः | ह्रः करतलकरपृष्ठाभ्यां नमः |

हृदयादिन्यास क्लीं ह्रां हृदयाय नमः | ह्रीं शिरसे स्वाहा | ( हुम् शिखायै वषट ) ह्रुं शिखायै वौषट | ह्रैं कवचाय हुम् | ह्रौं नेत्रत्रयाय नमः | ह्यु: अस्त्राय फट |


इसके बाद फिर शापविमोचन मंत्र का सौ बार जाप करे |

मंत्र : ' क्लीं ह्रां ह्रीं ह्रूं ह्रैं हूँ : स्वाहा"

इस मंत्र का सौ बार जाप करे |


अब यहाँ से विष्णुसहस्त्रपाठ  की विधि शुरू होती है |

सर्वप्रथम इसका विनियोग करना है |

विनियोगः  अस्य श्री विष्णोर्दिव्यसहस्त्रनामस्तोत्रमंत्रस्य भगवान् वेदव्यास ऋषिः | श्री विष्णुः परमात्मा देवता अनुष्टुप छन्दः | अमृतांशूद्भवो भानुरिति बीजम | देवकीनन्दनः स्रष्टेति शक्तिः | त्रिसामा सामग: सामेति हृदयं | शङ्खभृन्नन्दकी चक्रिति कीलकं शार्ङ्गधन्वा गदाधर इत्यस्त्रं | रथांगपाणिरक्षोभ्य इति कवचं | उद्भवः क्षोभणो देव इति परमोमन्त्रः | श्री महाविष्णु प्रीत्यर्थे जपे विनियोगः |

पश्चात् करन्यास-हृदयादिन्यास करने है |


करन्यास विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठभां नमः | अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः | ब्रह्मण्यो ब्रह्मकृद ब्रह्मेति मध्यमाभ्यां नमः | सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः | निमिषोनिमिषः स्त्रग्वीति कनिष्ठिकाभ्यां नमः | रथांगपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः |

हृदयादिन्याससुव्रतः सुमुखः सूक्ष्मः ज्ञानाय हृदयाय नमः | सहस्रमूर्धा विश्वात्मा ऐश्वराय शिरसे स्वाहा | सहस्त्रार्चिः सप्तजिह्व शक्त्यै शिखायै वौषट | त्रिसामा सामगः साम बलाय कवचाय हुम् | रथाङ्गपाणिरक्षोभ्य तेजसे नेत्राभ्यां वौषट | शार्ङ्गधन्वा गदाधरः वीर्याय अस्त्राय फट | ऋतुः सुदर्शनः कालः भूर्भुवः स्वरों | इति दिग्बन्धः |


पश्चात भगवान् विष्णु का ध्यान धरे |

ध्यानसशङ्खचक्रं सकिरीट कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं |

          संहारवक्ष स्थल कौस्तुभ श्रियं नमामि विष्णुं शिरसाचतुर्भुजं ||

या फिर यह भी ध्यान कर सकते है |

ध्यानशान्ताकारं भुजगशयनं पद्मनाभं सुरेशं | विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं |

        लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं | वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं ||


नमो भगवते वासुदेवाय |

यस्य स्मरण मात्रेण जन्मसंसार बंधनात् |

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे || 1 ||


नमः समस्तभूताना मादिभूताय भूभृते |

अनेकरूपरूपाय विष्णवे प्रभविष्णवे || 2 ||


वैशम्पायन उवाच

श्रुत्वा धर्मानशेषेण पावनानि सर्वशः |  

युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत || 3 || 


युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाप्येकं परायणम् |

स्तुवंतः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् || 4  ||


को धर्म सर्वधर्माणां भवतः परमो मतः |

किं जपन्मुच्यते जन्तु र्जन्मसंसारबंधनात् || 5 ||


भीष्म उवाच

जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् |

स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः || 6 ||


तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् |

ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव || 7 ||


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् |

लोकध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् || 8 ||


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् |

लोकनाथं महद्भूतं सर्वभूतभवोद् भवम् || 9 ||


एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः |

यद् भक्त्या पुंडरीकाक्षं स्तवैऱर्चेन्नरः सदा || 10 ||


परमं यो महत्तेजः परमं यो महत्तपः |

परमं यो महद्ब्रह्म परमं यः परायणम् || 11 ||


पवित्राणां पवित्रं यो, मंगलानां मंगलम् |

दैवतं देवतानां , भूतानां योऽव्ययः पिता || 12 ||


यतः सर्वाणि भूतानि, भवंत्यादियुगागमे |

यस्मिंश्च प्रलयं यान्ति, पुनरेव युगक्षये || 13 ||


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते |

विष्णोर्नामसहस्त्रं  श्रुणु पापभयापहम् || 14 ||


यानि नामानि गौणानि विख्यातानि  महात्मनः |

ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये || 15 ||


नमो भगवते वासुदेवाय

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः |

भूतकृद् भूतभृद्  भावो भूतात्मा भूतभावनः || 16 ||


पूतात्मा परमात्मा मुक्तानां परमागतिः |

अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव || 17 ||


योगो योगविदां नेता प्रधानपुरुषेश्वरः |

नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः || 18 ||


सर्वः शर्वः शिवः स्थाणु र्भूतादिर्नीधीरव्ययः |

संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः || 19 ||


स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः |

अनादिनिधनो धाता विधाता धातुरुत्तमः || 20 ||


अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः |

विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः || 21 ||


अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः |

प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् || 22 ||


ईशानः प्राणदः प्राणो, ज्येष्ठः श्रेष्ठः प्रजापतिः |

हिरण्यगर्भो भूगर्भो,माधवो मधुसूदनः || 23 ||


ईश्वरो विक्रमी धन्वी, मेधावी विक्रमः क्रमः |

अनुत्तमो दुराधर्षः, कृतज्ञः कृतिरात्मवान् || 24 ||


सुरेशः शरणं शर्म, विश्वरेताः प्रजाभवः |

अहः संवत्सरो व्यालः, प्रत्ययः सर्वदर्शनः || 25 ||


अजः सर्वेश्वरः सिद्धः, सिद्धिः सर्वादिरच्युतः |

वृषाकपिरमेयात्मा, सर्वयोगविनिःसृतः || 26 ||


वसुर्वसुमनाः सत्यः, समात्मा संमितः समः |

अमोघः पुंडरीकाक्षो, वृषकर्मा वृषाकृतिः || 27 ||


रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः |

अमृतः शाश्वतः स्थाणु र्वरारोहो महातपाः || 28 ||


सर्वगः सर्वविद्भानु र्विश्वक्सेनो जनार्दनः |

वेदो वेदविदव्यंगों वेदांगो वेदवित् कविः || 29 ||


लोकाध्यक्षः सुराध्यक्षो, धर्माध्यक्षः कृताकृतः |

चतुरात्मा चतुर्व्यूह श्चतुर्दंष्ट्रः श्चतुर्भुजः || 30 ||


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः |

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः || 31 ||


उपेन्द्रो वामनः प्रांशु, रमोघः शुचिरूर्जितः |

अतींद्रः संग्रहः सर्गो, धृतात्मा नियमो यमः || 32 ||


वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः |

अतींद्रियो महामायो, महोत्साहो महाबलः || 33 ||


महाबुद्धिर्महावीर्यो, महाशक्तिर्महाद्युतिः |

अनिर्देश्यवपुः श्रीमान् अमेयात्मामहाद्रिधृफ् || 34 ||


महेष्वासो महीभर्ता, श्रीनिवासः सतांगतिः |

अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः || 35 ||


मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः |

हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः || 36 ||


अमृत्युः सर्वद्रक् सिंहः , संधाता संधिमान् स्थिरः |

अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा || 37 ||


गुरुर्गुरुतमो धाम, सत्यः सत्यपराक्रमः |

निमिषोऽनिमिषः स्त्रग्वी, वाचस्पतिरुदारधीः || 38 ||


अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः |

सहस्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् || 39 ||


आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः |

अहः संवर्तको वह्नि रनिलो धरणीधरः || 40 ||


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः |

सत्कर्ता सत्कृतः साधु र्जह्नुर्नारायणो नरः || 41 ||


असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः |

सिद्धार्थः सिद्धिसंकल्पः सिद्धिदःसिद्धिसाधनः || 42 ||


वृषाही वृषभो विष्णु र्वृषपर्वा वृषोदरः |

वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः || 43 ||


सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः |

नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः || 44 ||


ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः |

ऋद्धः स्पष्टाक्षरो मंत्र श्चन्द्रांशुर्भास्करद्युतिः || 45 ||


अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः |

औषधं जगतः सेतुः सत्यधर्मपराक्रमः || 46 ||


भूतभव्यभवन्नाथः पवनः पावनोऽनलः |

कामहा कामकृत् कांतः कामः कामप्रदः प्रभुः || 47 ||


युगादिकृद्युगावर्तो नैकमायो महाशनः |

अर्दश्योऽव्यक्तरूपश्च सहस्त्रजिदनंतजित् || 48 ||


इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः |

क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः || 49 ||


अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः |

अपां निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः || 50 ||


स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः |

वासुदेवो बृहद्भानु रादिदेवः पुरन्दरः || 51 ||


अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः |

अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः || 52  ||


पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् |

महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः || 53 ||


अतुलः शरभो भीमः समयज्ञो हविर्हरिः |

सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः || 54 ||


विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः |

महीधरो महाभागो वेगवानमिताशनः || 55 ||


उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः |

करणं कारणं कर्ता विकर्ता गहनों गुहः || 56 ||


व्यवसायों व्यवस्थानः संस्थानः स्थानदो ध्रुवः |

परर्द्धिः परमः स्पष्टः स्तुष्टः पुष्टः शुभेक्षणः || 57 ||


रामो विरामो विरजो मार्गो नेयो नयोऽनयः |

वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः || 58 ||


वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः |

हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः || 59 ||


ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः |

उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः || 60 ||


विस्तारःस्थावरःस्थाणुः प्रमाणं बीजमव्ययम् |

अर्थोऽनर्थो महाकोशो महाभोगो महाधनः || 61 ||


अनिर्विण्णः स्थविष्ठोऽभू र्धर्मयूपो महामखः |

नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः || 62 ||


यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः |

सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् || 63 ||


सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् |

मनोहरो जितक्रोधो वीर बाहुर्विदारणः || 64 ||


स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् |

वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः || 65 ||


धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् |

अविज्ञाता सहस्त्रांशु र्विधाता कृतलक्षणः || 66 ||


गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः |

आदिदेवो महादेवो देवेशो देवभृद्गुरुः || 67 ||


उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः |

शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः || 68 ||


सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः |

विनयो जयः सत्यसन्धो दाशार्ह: सात्वतांपतिः || 69 ||


जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः |

अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः || 70 ||


अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः |

आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः || 71 ||


महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः |

त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतान्तकृत् || 72 ||


महावराहो गोविन्दः सुषेणः कनकाङ्गदि |

गुह्यो गभीरो गहनों गुप्तश्चक्रगदाधरः || 73 ||


वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः |

वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः || 74 ||


भगवान् भगहा नन्दी वनमाली हलायुधः |

आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः || 75 ||


सुधन्वा खण्डपरशु र्दारुणो द्रविणप्रदः |

दिविस्पृक सर्वद्दृग्व्यासो वाचस्पतिर्योनिजः || 76 ||


त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् |

संन्यासकृच्छमः शांतो निष्ठा शांतिः परायणः || 77 ||


शुभाङ्गः शांतिदः स्त्रष्टा कुमुदः कुवलेशयः |

गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः || 78 ||


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः |

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः || 79 ||


श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः |

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः || 80 ||


स्वक्षः स्वंगः शतानंदो नन्दिर्ज्योतिर्गणेश्वरः |

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः || 81 ||


उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः |

भूशयो भूषणो भूति र्विशोकः शोकनाशनः || 82 ||


अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः |

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः || 83 ||


कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः |

त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः || 84 ||


कामदेवः कामपालः कामीकान्तः कृतागमः |

अनिर्देश्यवपुर्विष्णु र्वीरोऽनन्तो धनञ्जयः || 85 ||


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा  ब्रह्म ब्रह्मविवर्धनः |

ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः || 86 ||


महाक्रमो महाकर्मा, महातेजा महोरगः |

महाक्रतुर्महायज्वा महायज्ञो महाहविः || 87 ||


स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः |

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः || 88 ||


मनोजवस्तीर्थकरो वसुरेता वसुप्रदः |

वसुप्रदो वासुदेवो वसुर्वसुमना हविः || 89 ||


सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः |

शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः || 90 ||


भूतावासो वासुदेवः सर्वासुनिलयोऽनलः |

दर्पहा दर्पदो दप्तो दुर्धरोऽथापराजितः || 91 ||


विश्वमूर्तिर्महामूर्ति र्दीप्तमूर्तिरमूर्तिमान् |

अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः || 92 ||


ऐको नैकः सवः कः किं यत्तत्पदमनुत्तमम् |

लोकबन्धुर्लोकनाथो   माधवो भक्तवत्सलः || 93 ||


               सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी |                     

वीरहा विषमः शून्यो धृताशीरचलश्चलः  || 94 ||


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्

सुमेधा मेधजो धन्यः सत्यमेधा धराधरः || 95 ||


तेजोवृषो द्युतिधरः सर्वशस्त्रभृतांवरः |

प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः || 96 ||


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः |

चतुरात्मा चतुर्भाव श्चतुर्वेदविदेकपात् || 97 ||


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः |

दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा || 98 ||


शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः |

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः || 99 ||


उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः |

अर्को वाजसनः शृङ्गी जयंतः सर्वविज्जयी || 100 ||


सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः |

महाह्रदो महागर्तो महाभूतो महानिधिः || 101 ||


कुमुदः कुंदरः कुंदः पर्जन्यः पावनोऽनिलः |

अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः || 102 ||


सुलभः सुव्रतः सिद्धः  शत्रुजिच्छत्रुतापनः |

न्याग्रोधोदुंबरोऽश्वत्थ श्चाणूरान्ध्रनिषूदनः || 103 ||


सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः |

अमूर्तिरनघोऽचिंत्यो भयकृद् भयनाशनः || 104 ||


अणुर्बुहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् |

अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः || 105 ||


भारभृत् कथितो योगी योगीशः सर्वकामदः |

आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः || 106 ||


धनुर्धरो धनुर्वेदो दंडो दमयिता दमः |

अपराजितः सर्वसहो नियंता नियमो यमः | 107 ||


सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः |

अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः || 108 ||


विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः |

रविर्विरोचनः सूर्यः सविता रविलोचनः || 109 ||


अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः |

अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः || 110 ||


सनात्सनातनतमः कपिलः कपिरव्ययः |

स्वस्तिदःस्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः || 111 ||


अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः |

शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः || 112 ||


अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः |

विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः || 113 ||


उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्न नाशनः |

वीरहा रक्षणः संतो जीवनः पर्यवस्थितः || 114 ||


अनंतरूपोऽनंतश्री र्जीतमन्युर्भयापहः |

चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः || 115 ||


अनादिर्भूर्भुवो लक्ष्मीः सुविरो रूचिरांगदः |

जननो जनजन्मादि  र्भीमो भीम पराक्रमः || 116 ||


आधारनिलयो धाता पुष्पहासः प्रजागरः |

उर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः || 117 ||


प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः |

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः || ११८ ||


भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः |

यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः || 119 ||


यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग्यज्ञसाधनः |

यज्ञांतकृद् यज्ञगुह्य मन्नमन्नाद अेव || 120 ||


आत्मयोनिः स्वयंजातो वैखानः सामगायनः |

देवकीनंदनः स्त्रष्टा क्षितीशः पापनाशनः || 121 ||


शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः |


रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः || 122 || 



|| सर्व प्रहरणायुघ नम इति ||

इतीदं कीर्तनीयस्य केशवस्य महात्मनः |    

नाम्नां सहस्त्रं दिव्याना मशेषेण प्रकीर्तितम् || 123 ||


इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत् |

नाशुभं प्राप्नुयात् किंचित् सोऽमुत्रेह मानवः || 124 ||


वेदान्तगो ब्राह्मणःस्यात् क्षत्रियो विजयीभवेत् |

वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् || 125 ||


धर्मार्थीप्राप्नुयाद्धर्म मर्थार्थी चार्थमाप्नुयात् |

कामानवाप्नुयात् कामी प्रजार्थीप्राप्नुयात् प्रजाम् || 126 ||


भक्तिमान् यः सदोत्थाय शुचिस्तद् गतमानसः |

सहस्त्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् || 127  ||


यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव |

अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् || 128 ||


भयं क्वचिदाप्नोति वीर्यं तेजश्चविंदति |

भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः || 129 ||


रोगार्तोमुच्यते रोगाद् बद्धो मुच्येतबन्धनात् |

भयान्मुच्येत  भीतस्तु मुच्येतापन्नआपदः || 130 ||


दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् |

स्तुवन्नामसहस्त्रेण नित्यं भक्तिसमन्वितः || 131 ||


वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः |

सर्वपापविशुद्धात्मा याति ब्रह्मसनातनम् || 132 ||


वासुदेवभक्तानाम् अशुभं विद्यते क्वचित् |

जन्ममृत्युजराव्याधि भयं नैवोपजायते || 133 ||


इमं स्तवम धीयानः श्रद्धाभक्तिसमन्वितः |

युज्येतात्मसुखक्षान्ति श्रीधृतिस्मृतिकीर्तिभिः || 134 ||


क्रोधो मात्सर्यं लोभो नाशुभामतिः |

भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे || 135 ||


द्यौ: सचन्द्रार्क नक्षत्रा खं दिशो भूर्महोदधिः

वासुदेवस्य वीर्येण विधृतानि महात्मनः || 136 ||


ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् |

जगद्वशे वर्त्ततेदं कृष्णस्य सचराचरम् || 137 ||


इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलंधृतिः |

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ अेव || 138 ||


सर्वगमानामाचारः प्रथमं परिकल्पते |

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः || 139 ||


ऋष्यः पितरो देवा महाभूतानि धातवः |

जङ्गमा जङ्गमं चेदं जगन्नारायणोद्भवम् || 140 ||




योगोज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म |

वेदाः शास्त्राणि विज्ञान मेतत्सर्वं जनार्दनात् || 141 ||


अेको विष्णुर्महद् भूतं पृथग् भूतान्यनेकशः |

त्रींल्लोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः || 142 ||


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् |

पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुंसुखानि || 143 ||


विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् |

भजन्ति ये पुष्कराक्षं ते यान्ति पराभवम् || 144 ||


|| अर्जुन उवाच ||

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम |

भक्तानामनुरक्तानां त्राता भव जनार्दन || 145 ||


|| श्री भगवानुवाच ||

यो मां नामसहस्त्रेण स्तोतुमिच्छति पाण्डव |

सोऽहमेकेन श्लोकेन स्तुत एव संशयः || 146 ||


नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादा क्षिशिरोरुबाहवे |

सहस्रनाम्ने पुरुषाय शाश्वते सहस्त्र कोटि युगधारिणे नमः || 147 ||


नमः कमलनाभाय नमस्ते जलशायिने |

नमस्ते केशवानन्त वासुदेव नमोऽस्तुते || 148 ||


वासनाद्वासुदेवस्य वासितं भुवनत्रयम् |

सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तुते || 149 ||


नमो ब्रहमण्यदेवाय गो ब्राह्मणहिताय |

जगद्विताय कृष्णाय  गोविन्दाय नमो नमः || 150 ||


आकाशात्पतितं तोयं यथा गच्छति सागरम् |

सर्वदेवनमस्कारः केशवं प्रति गच्छति || 151 ||


एष निष्कण्टकः पंथा यत्र सम्पूज्यते हरिः |

कुपथं तं विजानीयाद् गोविन्दरहितागमम् || 152 ||


सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् |

तत् फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् || 153 ||


यो नरः पठते नित्यं त्रिकालं केशवालये |

द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति || 154 ||


दह्यं ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः |

विलीयन्ते पापानि स्तवे ह्यस्मिन् प्रकीर्तिते || 155 ||


येन ध्यातः श्रुतो येन येनायं पठ्यते स्तवः |

दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः  || 156 ||


इह लोके परे वापि भयं विद्यते क्वचित् |

नाम्नां सहस्त्रं योऽधीते द्वादश्यां मम सन्निधौ || 157 ||


शनैर्दहति पापानि कल्पकोटिशतानि |

अश्वत्थसन्निधौ पार्थः तुलसीसन्निधौ तथा || 158 ||


पठेन्नामसहस्त्रं तु गवां कोटिफलं लभेत् |

शिवालये पठेन्नित्यं तुलसीवनसंस्थितः || 159 ||


नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा |

ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति || 160 ||


वनमाली गदी शांर्गी शङ्खी चक्री नंदकी |

श्रीमन्नारायणो विष्णुः वासुदेवोऽभिरक्षतु || 161 ||



|| इति श्रीमन्महाभारते शतसाहस्त्रायां संहितायां वैयासिक्यामानुशासनिके पर्वाणि दानधर्मे भीष्मयुधिष्ठिरसम्वादे श्री विष्णोर्दीव्यसहस्त्रनाम स्तोत्रं सम्पूर्णम ||

श्री विष्णु सहस्त्र नाम | Vishnu Sahstranaam Path Full | श्री विष्णु सहस्त्र नाम | Vishnu Sahstranaam Path Full | Reviewed by Bijal Purohit on 4:50 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.