धनदा कवच | Dhanda Kavach |

 

धनदा कवच 

धनदा कवच

देव्युवाच 

धनदा या महाविद्या कथिता प्रकाशिता |

इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् || ||


शिव उवाच

शृणु देवि प्रवक्ष्यामि कवचं मन्त्रविग्रहम् |

सारात्सारतरं देवि कवचं मन्मुखोदितम् || ||


धनदा कवचस्यास्य कुवेर ऋषिरीरितः |

पड्डिक्तश्चन्दो देवता धनदा सिद्धिदा सदो || ||


धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः |

धं बीजं मे शिरः पातु हीं बीजं मे ललाटकम् || ||


श्रीं बीजं में मुखं पातु रकारं हृदि मेऽवतु |

तिकारं पातु जठरं प्रिकारं पृष्ठतोऽवतु || ||


येकरां जड्ंघयोर्युग्मे स्वाकारं पादयोर्युगे |

शीर्षादिपादपर्यन्तं हाकारं सर्वतोऽवतु || ||


इत्येतत्कथितं कान्ते कवचं सर्वसिद्धिदम् |

गुरुमभ्यर्च्य विधिवत् कवचं प्रपठेद्यदि || ||


शतवर्ष सहस्त्राणां पूजायाः फलमाप्नुयात् |

गुरुपूजां विना देवि नहि सिद्धिः प्रजायते || ||


गुरुपूजात्परो भूत्वा कवचं प्रपठेत्ततः |

सर्वसिद्धियुतो भूत्वा विचरेद् भैरवो यथो || ||


प्रातःकाले पठेद्यस्तु मन्त्रजापपुरः सरम् |

सोऽभीष्टफलमाप्नोति सत्यं सत्यं संशयः || १० ||


पूजाकाले पठेद्यस्तु देवीं ध्यात्वा हृदम्बुजे |

षण्मासाभ्यन्तरे सिद्धिर्नात्र कार्या विचारणा || ११ ||


सायंकाले पठेद्यस्तु शिवो नात्र संशयः |

भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यादि || १२ ||


पुरुषो दक्षिणे वाहौ योषिद्वामभुजे तथा |

सर्वसिद्धियुता भूत्वा धनवान् पुत्रवान् भवेत् || १३ ||


इदं कवचमज्ञात्वा यो जपेद्धनदां शुभे |

शस्त्रघातमवाप्नोति सोऽचिरान्मृमाप्नुयात् || १४ ||


कवचेनावृतो नित्यं यो हि यत्रैव गच्छति |

तत्रैव महादेवि सम्पूज्यो नात्र संशयः || १५ ||


|| अस्तु ||

धनदा कवच | Dhanda Kavach | धनदा कवच | Dhanda Kavach | Reviewed by Bijal Purohit on 12:23 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.