धनदा देवि स्तोत्र | Dhanda Devi Stotra |


धनदा देवि स्तोत्र 


धनदा देवि स्तोत्र

यथातः सम्प्रवक्ष्यामि धनदां सर्वसिद्धिदाम् |

यामाराध्य महादेवि कुवेरो धननायकः || ||


दान्तं विन्दुसमारूढं महामायां हरिप्रियाम् |

रतिप्रिये ततः पश्चाद् वह्निजायां ततः प्रिय || ||


नवाक्षरो महामंत्रो द्रुतं सिद्धिप्रदायकः |

कुवेरोऽस्य ऋषिःप्रोक्तंःपड़िक्तश्छंदे उदहृतम् || ||


देवता धनदा देवी सर्वसिद्धि प्रदायिनीं |

धर्मार्थकाममोक्षाख्यश्चतुर्वर्गफलप्रदा || ||


षड्दीर्घमायया चैव शडंगन्यासमाचरेत् |

ध्यानमस्याः प्रवक्ष्यामि येन सिद्धी भवेन्नरः || ||


ओं देवीं कांचनकांतिकायविमलां रक्तां शुकाच्छादितां |

हेमाम्भोजयुगाभयाङ्कुशकरीं रत्नोल्लसत्कुण्डलाम् || ||


सर्वाभीष्टफलप्रदां त्रिनयनां नागेन्द्रहारोज्ज्वलां |

वन्दे सर्वभयापहां त्रिजगतां पापापहारीं पराम् || ||


स्वकीयात्मस्वरुपां तां भावयेच्चित्स्वरुपिणीम् |

एवं ध्यात्वा महेशानि मानसः पूजनं चरेत् || ||


अर्घ्यपात्रं स्थापयित्वा धेनुयोनिं प्रदर्शयेत् |

पीठपूजां ततः कृत्वा ततः पीठन्तु संजपेत् || ||


आधारशक्तिमारभ्य जपेत्यद्मासनं प्रिये |

प्रणवादिनमोऽन्तेन पूजयेत्साधकाग्रणीः || १० ||


पुनर्ध्यात्वा महेशानि मूलेनावाहनं चरेत् |

षडंगेन सम्पूज्य जीवन्यासं समाचरेत् || ११ ||


देवायै ततः पश्चाद्योगात्मकमनुस्मरेत् |

नवयोन्यात्मकं चक्रं विलिखेत् कार्णकोपरि || १२ ||


द्विदलं पद्ममालिख्य चतुरस्त्रं ततो बहिः |

कोणेषु वज्रं संलिख्य मध्ये बीजं समुल्लिखेत् || १३ ||


इदं यन्त्रं महेशानि साक्षाद् देवीस्वरुपकम् |

लक्ष्मी पद्मां पद्मालयां श्रियं चैव हरिप्रियाम् || १४ ||


शंखां तु कमलां चैव अब्जां चंचलां तथा |

लोलां प्रणवाद्येता नमोऽन्तेन प्रपूजयेत् || १५ ||


पुनर्मध्ये ततो देवीं देव्या हस्ते समर्पयेत् |

प्राणायामं ततः कृत्वा प्रणामाष्टांगमाचरेत् || १६ ||


अथोत्थाय महेशानि विशेषार्ध्यं निवेदयेत् |

आत्मसमर्पणं कृत्वां विहरेच्च निजेच्छया || १७ ||


|| अस्तु ||     

धनदा देवि स्तोत्र | Dhanda Devi Stotra | धनदा देवि स्तोत्र | Dhanda Devi Stotra | Reviewed by Bijal Purohit on 12:33 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.