श्री संकट नाशन गणपति स्तोत्र | Shri Sankat Nashan Stotra |


श्री संकट नाशन गणेश स्तोत्र

Shri Sankat Nashan Stotra |
|| श्री नारद उवाच ||

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं |
भक्तावासंस्मरेन्नित्यं आयुः कामार्थ सिद्धये || १ ||

प्रथमं वक्रतुंडं च एकदन्तं द्वितीयकं |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं || २ ||

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं || ३ ||

नवमं भालचन्द्रं च दशमं तू विनायकं |
एकादशं गणपतिं द्वादशं तु गजाननं || ४ ||

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरं परं || ५ ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनं |
पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम् || ६ ||

जपेद्गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत |
संवत्सरेण सिद्धिं च लभते नात्र संशयः || ७ ||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || ८ ||

|| इति श्री नारदपुराणे संकटनाशन श्री गणपति स्तोत्रम सम्पूर्ण ||
श्री संकट नाशन गणपति स्तोत्र | Shri Sankat Nashan Stotra | श्री संकट नाशन गणपति स्तोत्र | Shri Sankat Nashan Stotra | Reviewed by Bijal Purohit on 12:25 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.