मार्कण्डेय कृत पितृ स्तोत्र | Markandei krut Pitru Stotra |


मार्कण्डेय कृत पितृ स्तोत्र

मार्कण्डेय कृत पितृ स्तोत्र


मार्कण्डेय पुराण में वर्णित दिव्य और
पावन पितृ स्तोत्र

|| पितृ स्तोत्रम् ||

अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम्।
नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम्॥

इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा।
सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान्॥

मन्वादीनां च नेतारः सूर्याचन्द्रमसोस्तथा।
तान् नमस्यामहं सर्वान् पितृनप्युदधावपि॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।
द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलिः॥

देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान्।
अक्षय्यस्य सदा दातृन् नमस्येऽहं कृताञ्जलिः॥

प्रजापतेः कश्यपाय सोमाय वरुणाय च।
योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः॥

नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु।
स्वयम्भूवे नमस्यामि ब्रह्मणे योगचक्षुषे॥

सोमाधारान् पितृगणान् योगमूर्तिधरांस्तथा।
नमस्यामि तथा सोमं पितरं जगतामहम्॥

अग्निरूपांस्तथैवान्यान् नमस्यामि पितृनहम्।
अग्नीषोममयं विश्वं यत एतदशेषतः॥

ये तु तेजसि ये चैते सोमसूर्याग्रिमूर्तयः।
जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः॥

तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः।
नमो नमो नमस्तेऽस्तु प्रसीदन्तु स्वधाभुजः॥

|| इति श्री पितृस्तोत्रं सम्पूर्णम् ||
मार्कण्डेय कृत पितृ स्तोत्र | Markandei krut Pitru Stotra | मार्कण्डेय कृत पितृ स्तोत्र | Markandei krut Pitru Stotra | Reviewed by Bijal Purohit on 5:21 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.