शमी पूजन स्तोत्र | Shami Pujan Stotra |

 

शमी पूजन प्रयोगः

शमी पूजन प्रयोगः

अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये | 

जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ || 


त्वं चापराजिते देवि शमीवृक्षस्थिते जये | 

राज्यं मे देहि विश्वेशि शत्रूणां च पराजयम् || २ || 


अमङ्गलानां शमनीं, दुःकृतस्य च शमनीम् | 

दुःस्वप्नशमनीं धन्यां, प्रपद्येऽहं शमीं शमाम् || ३ || 


शमी शमयते रोगान्, शमी शमयते रिपून् | 

शमी शमयते पापं, शमी सर्वार्थसाधिनी || ४ || 


अर्जुनस्य धनुर्धात्री,रामस्य शोकनाशिनी | 

लक्ष्मणप्राणदात्री च, सीताशोकशमङ्करी || ५ || 


अपराजिते नमस्तेऽस्तु, जयदे कामदायिनी | 

यात्रामहं करिष्यामि, सिद्धि सर्वत्र मे कुरु || ६ || 


मन्त्रैर्वेदमयैश्चैव, पूज्येच्च शमीस्थिताम् | 

अपराजितां भद्ररूपां, विजयार्थप्रदां शिवम् || ७ || 


क्रोमेणेन्द्रस्य ककुभिः, विन्यसेत् तु पदं क्रमात् | 

रिपोः प्रतिकृतिं कृत्वा, पांशुना तलरूपिणीम् || ८ || 


शरेण शरपुड्खेंण, बिद्धेद् हृदयमर्मणि | 

दिशां विजयमन्त्राश्च, असिरुपा द्विजातिभिः || ९ || 


पठनीयास्ततो गेहं, गच्छेच्चैव पुरोधसा | 

मङ्गल्यमभिषेकं च, गुणप्राशनमेव च || १० || 


स्वस्तिवाच्या द्विजाश्चैव, बन्दीभ्योऽभयदक्षिणां | 

देयाधिक्यं च रजतं, वस्त्रादिनवभूषणम् || ११ ||   


परिधयं स्वयं चैय, पत्नीभ्यो देयमेव च | 

पुत्रादिभ्यो स्त्रुषादिभ्यो, मन्त्रीभ्यो देयमेव च || १२ || 


अदेयमपि तत्काले, देयं श्रद्धा | 

सम्भाव्य पौरान् भृत्यांश्च, तेषामुत्सर्जनं ततः || १३ || 


ततः पुरोधसा साकं, स्वयं गच्छेच्छमीं पुनः | 

वामदक्षिण पार्श्वेभ्यो, गृहीत्वा मृत्तिकां ततः || १४ || 


श्रीधरं च हिरण्यं च, पट्ट कूलं समर्पयेत् | 

गुरुं सम्पूज्य सस्त्रीकं, ततो गच्छेद् गृहं प्रति || १५ || 


|| अस्तु ||  

शमी पूजन स्तोत्र | Shami Pujan Stotra | शमी पूजन स्तोत्र | Shami Pujan Stotra | Reviewed by Bijal Purohit on 4:30 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.