श्री गायत्री कवच | Shree Gayatri Kavach |

 

श्री गायत्री कवच 

श्री गायत्री कवच 



अस्य श्रीगायत्रीकवचस्तोत्रमंत्रस्य ब्रह्म - विष्णु - 
महेश्वरा ऋषयः, ऋग् - 
यजुः - साम अथर्वाणि छन्दांसि, परब्रह्मस्वरुपिणी गायत्री देवता, 
तद् बीजम्, भर्गः शक्तिः धियः 
किलकम्, मोक्षार्थे जपे विनियोगः | 

चतुर्भिहृदयं प्रोक्तं त्रिभिर्वर्णै शिरः स्मृतम् | 
चतुर्भिः स्याच्छिरवा पश्चात् त्रिभिस्तु कवचं स्मृतम् || 
चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् || 

मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुरवैस्त्रीक्षणैर 
युक्तामिन्दुकला - निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् | 
गायत्रीं वरदा - मयांकुश्कुशाः शुभ्रं कपालं गुणम् 
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे || 


ब्रह्मसंध्या तु मे पश्चादुत्तरस्यां सरस्वती || १ || 

पार्वती मे दिशं रक्षेत् पावकी जलशायिनी | 
यातुधानी दिशं रक्षेद् यातुधानभयंकरी || २ || 

पावमानी दिशं रक्षेत् पवमान विलासिनी | 
दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी || ३ ||    

ऊर्ध्वं ब्राह्मणी मे रक्षेदधस्ताद् वैष्णवी तथा | 
एवं दश दिशा रक्षेत् सर्वांगं भुवनेश्वरी || ४ || 

तत्पदं पातु मे पादौ जंधे मे सवितुः पदम् | 
वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च || ५ || 

देवस्य मे तद्धदयं धीमहीति च गल्लयोः | 
धियः पदं च मे नेत्रे यः पदं मे ललातकम् || ६ || 

नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात् | 
तत्पदं पातु मूर्धानं सकारः पातु भालकम् || ७ || 

चाक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः | 
नासापुटं वकारार्णो रेकारस्तु मुखे तथा || ८ || 

णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम् | 
आस्यमध्ये मकारार्णो र्गोकारश्चुबुके तथा || ९ || 

देकरः कण्ठदेशे तु वकारः स्कन्धदेशकम् | 
स्यकारो दक्षिणं हस्तं धिकारो वामहस्तकम् || १० || 

मकरो हृदयं रक्षेद्धिकार उदरे तथा | 
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा || ११ || 

गुह्यं रक्षतु योकार ऊरु द्वौ नःपदाक्षरम् | 
प्रकारो जानुनी रक्षेच्चोकारो जंधदेशकम् || १२ || 

दकारं गुल्फदेशे तु यकारः पदयुग्मकम् | 
तकारो व्यंजनं चैव सर्वांगे मे सदाऽवतु || १३ || 

इदं तु कवचं दिव्यं बाधारातविनाशनम् | 
चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् || १४ || 

मिच्यते सर्वपापेभ्यः परंब्रह्माधिगच्छति | 
पठनाच्छ्रवणाद्धापि गोहसस्त्रफलं लभेत् || १५ || 

|| इति गायत्रीकवचं सम्पूर्णम् ||   
श्री गायत्री कवच | Shree Gayatri Kavach | श्री गायत्री कवच | Shree Gayatri Kavach | Reviewed by Bijal Purohit on 3:40 am Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.