पञ्चश्लोकि गणेशपुराण | Panclshloki Ganeshpuran |

 

पञ्चश्लोकि गणेशपुराण

पञ्चश्लोकि गणेशपुराण

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा

तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा |

संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं

कर्तुं सृष्टिमिमां स्तुतः  विधिना व्यासेन बुद्ध्याप्तये ||


संकष्ट्याश्च विनायकस्य  मनोः स्थानस्य तीर्थस्य वै

दुर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् |

तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ

ताः सर्वा  समर्थ एव कथितुं ब्रह्मा कुतो मानवः ||


क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः

सिंहाङ्कः  विनायको दशभुजो भूत्वाथ काशीं ययैा |

हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं

त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ||


हत्वा तं कमलासुरं  सगणं सिन्धुं महादैत्यपं

पश्चात् सिद्धिमती सुते कमलजस्तस्मै  ज्ञानं ददौ |

द्वापरे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं

सम्यर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ||


गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै

तुष्टायाथ  धूम्रकेतुरभिधो विप्र सधर्मर्धिकः |

अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः

क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ||


एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान्

निर्वाणं परमं व्रजेत्  सकलान् भुक्त्वा सुभोगानपि |


|| अस्तु ||

पञ्चश्लोकि गणेशपुराण | Panclshloki Ganeshpuran | पञ्चश्लोकि गणेशपुराण | Panclshloki Ganeshpuran | Reviewed by Bijal Purohit on 12:49 pm Rating: 5

कोई टिप्पणी नहीं:

Blogger द्वारा संचालित.